|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.98. अध्यायः 098
Mahabharata - Drona Parva - Chapter Topics
द्रोणसात्यक्योर्युद्धम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-98-0x(4513)(48526)
बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते।
तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय॥ 7-98-1(48527)
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः।
नरव्याघ्रं शिनेः पौत्रं द्रोणः किमकरोद्युधि॥ 7-98-2(48528)
सञ्जय उवाच। 7-98-3x(4514)
सम्प्रस्रुतक्रोधविषो व्यादितास्यशरासनः।
तीक्ष्णधारेषुदशनः सितनाराचदंष्ट्रवान्॥ 7-98-3(48529)
संरम्भामर्षताम्राक्षो महोरग इव श्वसन्।
नरवीरः प्रमुदितः शोणैरश्वैर्महाजवैः॥ 7-98-4(48530)
उत्पतद्भिरिवाकाशे क्रामद्भिरिव पर्वतम्।
रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत्॥ 7-98-5(48531)
शरपातमहावर्षं रथघोषबलाहकम्।
कार्मुकैरावृतं राजन्नाराचबहुविद्युतम्॥ 7-98-6(48532)
शक्तिखङ्गाशनिधरं क्रोधवेगसमुत्थितम्।
द्रोणमेघमनावार्यं हयमारुतचोदितम्॥ 7-98-7(48533)
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः।
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः॥ 7-98-8(48534)
एनं वै ब्राह्मणं शूरं स्वकर्मण्यनवस्थितम्।
आश्रयं धार्तराष्ट्रस्य धर्मराजभयावहम्॥ 7-98-9(48535)
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत्।
आचार्यं राजपुत्राणां सततं शूरमानिनम्॥ 7-98-10(48536)
सञ्जय उवाच। 7-98-11x(4515)
`एवमुक्तस्ततः सूतः सात्यकस्यावहद्रथम्'।
ततो रजतसङ्काशा माधवस्य हयोत्तमाः।
द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः॥ 7-98-11(48537)
ततस्तौ द्रोणशैनेयौ युयुधाते परन्तपौ।
शरैरनेकसाहस्रैस्ताडयन्तौ परस्परम्॥ 7-98-12(48538)
इषुजालावृतं व्योम चक्रतुः पुरुषर्षभौ।
पूरयामासतुर्वीरावुभौ दश दिशः शरैः।
मेघाविवातपापाये धाराभिरितरेतरम्॥ 7-98-13(48539)
न स्म सूर्यस्तदा भाति न ववौ च समीरणः।
हषुजालावृतं घोरमन्धकारं समन्ततः॥ 7-98-14(48540)
अनाधृष्यमिवान्येषां शूराणामभवत्तदा।
अन्धकारीकृते लोके द्रोणशैनेययोः शरैः॥ 7-98-15(48541)
तयोः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा।
नान्तरं शरवृष्टीनां ददृशे नरसिंहयोः॥ 7-98-16(48542)
इषूणां सन्निपातेन शब्दो धाराभिघातजः।
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः॥ 7-98-17(48543)
नाराचैर्व्यतिविद्धानां शराणां रूपमाबभौ।
आशीविषविदष्टानां सर्पाणामिव भारत॥ 7-98-18(48544)
तयोर्ज्यातलनिर्घोषः शुश्रुवे युद्धशौण्डयोः।
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव॥ 7-98-19(48545)
उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी।
रुक्मपुङ्खैः शरैछन्नाश्चित्ररूपा बभुस्तदा॥ 7-98-20(48546)
निर्मलानामजिह्मानां नाराचानां विशाम्पते।
निर्मुक्ताशीविपाभानां सम्पातोऽभूत्सुदारुणः॥ 7-98-21(48547)
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ।
`निकृन्ततोः शरैस्तीक्ष्णैर्द्रोणसात्यकयो रणे'॥ 7-98-22(48548)
उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ।
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ।
अन्योन्यमभ्यविध्येतां जीवितान्तकरैः शरैः॥ 7-98-23(48549)
गर्जितोत्कृष्टसन्नादाः शङ्खदुन्दुभिनिःस्वनाः।
उपारमन्महाराज व्याजहार न कश्चन॥ 7-98-24(48550)
तुष्णींभूतान्यनौकानि योधा युद्धादुपारमन्।
ददर्श द्वैरथं ताभ्यां जातकौतूहलो जनः॥ 7-98-25(48551)
रथिनो हस्तियन्तारो हयारोहाः पदातयः।
अवैक्षन्ताचलैर्नेत्रैः परिवार्य नरर्षभौ॥ 7-98-26(48552)
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम्।
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः॥ 7-98-27(48553)
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः।
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः॥ 7-98-28(48554)
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः।
विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः॥ 7-98-29(48555)
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु।
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत॥ 7-98-30(48556)
सबलाकाः सखद्योताः सैरावतशतहदाः।
अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः॥ 7-98-31(48557)
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः।
तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः॥ 7-98-32(48558)
विमानाग्रगता देवा ब्रह्मसोमपुरोगमाः।
सिद्धचारणसङ्खाश्च विद्याधरमहोरगाः॥ 7-98-33(48559)
`गन्धर्वा दानवा यक्षा राक्षसाप्सरसः खगाः'।
गतप्रत्यागताक्षेपैश्चितैरस्त्रविघातिभिः।
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः॥ 7-98-34(48560)
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ।
अन्योन्यमभिविध्येतां शरैस्तौ द्रोणसात्यकी॥ 7-98-35(48561)
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे।
पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युतेः॥ 7-98-36(48562)
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः।
सज्यं चकार तदपि चिच्छेदास्य स सात्यकिः॥ 7-98-37(48563)
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत।
सज्यं सज्यं धनुश्चास्य चिच्छेद निशिथैः शरैः॥ 7-98-38(48564)
एवमेकशतं छिन्नं धनुषां दृढधन्विना।
न चान्तरं तयोर्दृष्टं सन्धाने च्छेदनेऽपि च॥ 7-98-39(48565)
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम्।
युयुधानस्य राजेन्द्र मनसैतदचिन्तयत्॥ 7-98-40(48566)
एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये।
भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे॥ 7-98-41(48567)
तं चास्य मनसा द्रोणः पूजयामास विक्रमम्।
लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः॥ 7-98-42(48568)
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः।
न तामालक्षयामासुर्लघुतां शीघ्रचारिणः॥ 7-98-43(48569)
देवाश्च युयुधानस्य गन्धर्वाश्च विशाम्पते।
सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत्॥ 7-98-44(48570)
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः।
अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत॥ 7-98-45(48571)
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहत्य स सात्यकिः।
जघान निशितैर्बाणैस्तदद्भुतमिवाभवत्॥ 7-98-46(48572)
तस्यातिमानुषं कर्म दृष्ट्वाऽन्यैरसमं रणे।
युक्तं योगेन योगज्ञास्तावकाः समपूजयन्॥ 7-98-47(48573)
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः।
तमाचार्योऽथ सम्भ्रान्तोऽयोधयच्छत्रुतापनः॥ 7-98-48(48574)
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः।
वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत्॥ 7-98-49(48575)
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः।
दिव्यमस्त्रं महेष्वासो वारुणं समुदैरयत्॥ 7-98-50(48576)
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ।
न विचेरुस्तदाऽऽकाशे भूतान्याकाशगान्यपि॥ 7-98-51(48577)
अस्त्रे ते वारुणाग्नेये यदा बाणैः समाहिते।
न यावदभ्यपद्येतां व्यावर्तदथ भास्करः॥ 7-98-52(48578)
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः।
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम्॥ 7-98-53(48579)
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः।
मत्स्याः साल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा॥ 7-98-54(48580)
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः।
द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम्॥ 7-98-55(48581)
रजसा संवृते लोके शरजालसमावृते॥
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन। 7-98-56(48582)
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत॥
`तेनान्तरेण पार्थस्तु रणे जित्वा महारिपून्। 7-98-57(48583)
अतिक्रान्तस्तदा युद्धं कृत्वा पर्यवतस्थिवान्'॥
॥ 7-98-58(48584)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टनवतितमोऽध्यायः॥ 98 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-98-16 अन्तरमवच्छेदः॥ 5-98-27 रथवाहिन्यो रथसेनाः॥ 5-98-29 वैजयन्ती विलक्षणाभिः पताकाभिः। परिस्तोमैर्वर्णकम्बलैः। अङ्गकम्बलैः सूक्ष्मकम्बलैः॥ 5-98-31 ऐरावतमिन्द्रधनुः। ऐरावतोभ्रमातङ्गै इत्युपक्रम्य नपुंसकं महेन्द्रस्य ऋजुदीर्घशरासने इति मेदिनी॥ उष्णस्य पर्याये अपगमे वागुराः जालानि समूहा इतियावत्॥ 5-98-34 प्रत्यागतं निवर्तनम्। आक्षेपः प्रहरणम्॥ 5-98-43 आलक्षयामासुर्लक्षितवन्तः॥ 5-98-44 विदुर्नेत्यनुषज्यते॥ 5-98-47 योगेन युक्त्या॥ 5-98-52 न यावदभ्यपद्येतां यावदेव न पराभूते। व्यावर्तत् मध्याह्नतः परावृत्तोऽभूत्॥ 5-98-98 अष्टनवतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|